Acharyas / Traditional (devotional Advaita)

Sridhara Swami

श्रीधर स्वामी

Traditional (devotional Advaita) · c. 14th–15th century CE

Sridhara Swami wrote the Subodhini on the Gita and the Bhavartha Dipika on the Srimad Bhagavatam. His commentaries are known for clarity and devotion, and Sri Chaitanya Mahaprabhu held them in high regard.

This is a short editorial summary in traditional dates. The commentary itself, below and in the app, is the Acharya's own preserved text.

From the commentary

Bhagavad Gita 2.47

।।2.47।।तर्हि सर्वकर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसंधाय प्रवर्तेत किं कर्मणेत्याशङ्क्य तद्वारयन्नाह कर्मण्येवेति। ते तव तत्त्वज्ञानार्थिनः कर्मण्येवाधिकारः। तत्फलेषु बन्धहेतुष्वधिकारः कामो मास्तु। ननु कर्मणि कृते तत्फलं स्यादेव भोजने कृते तृप्तिवदित्याशङ्क्याह। मा कर्मफलहेतुर्भूः कर्मफलं प्रवृत्तिहेतुर्यस्य …

Read verse 2.47 with this commentary

Bhagavad Gita 2.20

।।2.20।। न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति। न जायत इति जन्मप्रतिषेधः। न म्रियते चेति विनाशप्रतिषेधः। वाशब्दौ चार्थे। नचायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते। किंतु प्रागेव स्वतः सद्रूप इति जन्मानन्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः। तत्र हेतुः यस्मादजः। यो हि जायते स जन्मानन्तरमस्तित्वं …

Read verse 2.20 with this commentary

Bhagavad Gita 18.66

।।18.66।।ततोऽपि गुह्यतममाह -- सर्वेति। मद्भक्त्यैव सर्वं भविष्यतीति दृढविश्वासेन विधिकैकर्यं त्यक्त्वा मदेकशरणो भव। एवंवर्तमानः कर्मत्यागनिमित्तं पापं स्यादीति मा शुचः शोकं माकार्षीः। यतस्त्वा त्वां मदेकशरणं सर्वपापेभ्योऽहं मोक्षयिष्यामि।

Read verse 18.66 with this commentary